Srimad Valmiki Ramayanam

Balakanda Sarga 43

Bhagiratha brings Ganga to earth !

बालकांड
त्रिचत्वारिंशस्सर्गः
( गंगावतरणमु )

देव देवे गते तस्मिन् सोंगुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतीं राम संवत्सरमुपासत ॥

स॥ हे राम ! देव देवे गते तस्मिन् वसुमतीं सोंगुष्ठाग्रनिपीडिताम् कृत्वा संवत्सरम् उपासत ।

Oh Rama ! After the creator went away , Bhagiratha performed penance for one year standing on top of his toes.

ऊर्थ्व बाहुर्निरालंबो वायुभक्षो निराश्रयः ।
अचलः स्थाणुवत् स्थित्वा रात्रिंदिवमरिंदम ॥

स॥ (सः) अरिंदम ऊर्ध्व बाहुः निरालंबो निराश्रयः वायुबक्षः स्थाणुवत् स्थित्वा अचलः आसीत् ।

The king who can defeat all enemies performed penance with outstretched hands standing still without moving, without any support and with only air as his food.

अथ संवत्सर पूर्णे सर्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानं इदमब्रवीत् ॥

स॥ अथ संवत्सर पूर्णे उमापतिः पशुपती सर्वलोक नमस्कृतः राजानं इदमब्रवीत् ।

After one year the Lord Siva who is paid obeisance to by all and who is known as Umapti then spoke to the king.

प्रीतस्तेsहं नरश्रेष्ठ करिष्यामि तवप्रियम् ।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥

स॥ हे नरश्रेष्ठ ते अहं प्रीतः । तव प्रियं करिष्यामि । अहं शैलराज सुतां शिरसा धारयिष्यामि ।

"Oh Best of men! I will fulfill your wish. I will bear the daughter of the king of mountains on my head".

ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तदा साति महद्रूपं कृत्वा वेगं च दुस्सहम्।
आकाशादपतत् राम शिवे शिवशिरस्युत ॥

स॥ ततः सा ज्येष्ठा हैमवती सर्वलोक नमस्कृता तदा दुस्सहं वेगं च महत् रूपं कृत्वा शिव सुरस्सु आकाशात् अपतत् ।

Then Ganga ,the eldest daughter of Himavan , who is respected by all fell from the sky with full force on to the head of Lord Siva.

अचिंतयच्छ सा देवी गंगा परमदुर्धरा ।
निशाम्यहं हि पाताळं स्रोतसा गृह्य शंकरम् ॥
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ।
तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ॥
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि।
हिमवत्प्रतिमे राम जटामंडल गह्वरे ॥
सा कथंचिन्महीं गंतुं नाशक्नोद्यत्नमास्थिता ।
नैव निर्गमनं लेभे जटामंडल मोहिता ॥
तत्रैवाबंभ्रमद्देवी संवत्सरगणान् बहून् ।
तामपस्यन् पुनस्तत्र तपः परमास्थितः ॥

स॥ सा परमदुर्धरा देवी गंगा स्रोतसा गृह्य शंकरम् पाताळं हि निशाम्यहं (इति) अचिंतयच्च ।भगवान् हरः तस्य अवलेपनं ज्ञात्वा क्रुद्ध अस्तु. तदा त्रि नयनः तस्य तिरोभावयितुं बुद्दिं चक्रे । हे राम ! रुद्रस्य पुण्ये मूर्धनि हिमवत्प्रति जटामंडल गह्वरे (अस्ति) सा ( गंगा) पुण्या तस्मिन् पतिता ।सा महीं गंतुं कथंचिन् यत्नमास्थिता न सक्नोति। जटामंडलमोहिता न निर्गमनम् एव ।(सा) देवी तत्र एव बहून् संवत्सर गणान् बंभ्रमत् । तां अपस्यन् ( भगीरथः) पुनः तत्र तपः परमास्थितः ।

Then Ganga thought that with the unbearable force of her flow she will carry Lord Sankara too to the nether world. Bhagavan Sankara realized the thoughts of Ganga and became very angry. The three eyed one then decided to teach her a lesson. O Rama ! the head of Lord Siva with its hair equalled in complexity the Himalayan mountains with its caves. The auspicious Ganga fell into that labyrinth. However much she tried she could not get out to reach the earth. She was unable to come out of the labyrinth of Sivas head. Ganga was stuck in that going round and round for years. Seeing that the king Bhagiratha again started his penance.

अनेन तोषितश्चाभूत् अत्यर्थं रघुनंदन ।
विससर्ज ततो गंगां हरो बिंदु सरः प्रति ॥

स॥ हे रघुनंदन ! अनेन अत्यर्थं तोषितश्च अभूत् । ततः हरो गंगां बिंदुसरः प्रति विससर्ज ।

' Oh Raghunandana ! Lord Siva pleased with the penance then released Ganga into the Bindu Sarovar'.

तस्यां विशृज्यमानायां सप्त स्रोतांसि जज्ञिरे ।
ह्लादिनी पावनीचैव नळिनी तथाs परा ॥
तिप्रः प्राचीं दिशं जग्मुः गंगा शिवजला श्शुभाः ।
सुचक्षुश्चैव सीता च सिंधुश्चैव महानदी ॥
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोधकाः ।
सप्तमी चान्वगात् तासां भगरथमथोनृपम् ॥

स॥ तस्यां विश्रुज्यमानायां सप्त स्रोतांसि जज्ञिरे ! ह्लादिनी पावनी च नळिनी एव शुभाः शिवजलाः गंगा प्राचीं दिशं जग्मुः । अपरः तिप्रः सुचक्षुः सीता सिंधुश्च महानदी शुभोदकाः एता तिस्रस्तु प्रतीचिं जग्मुः । अथ तासां सप्तमी भगीरथं नृपम् अन्वगत् च ।

'Thus released Ganga split into seven rivers. The the auspicious Ganga waters in the form of rivers Hladini, Pavani, Nalini moved east. The three rivers Suchakshu, Sita and Sindhu moved west . the seventh river followed Bhagiratha.'

भगीरथोsपि राजर्षिः दिव्यं स्यंदनमास्थितः ।
प्राये दग्रे महातेजाः गंगा तं चाप्यनुव्रजत् ॥

स॥ राजर्षिः भगीरथः अपि दिव्यं स्यंदन आस्थितः । प्रायेत् अग्रे गंगा तं महातेजाः च अनुव्रजत् ।

'The saint King move on a chariot. With that great man in the front river Ganga followed him'.

गगनात् शंकरशिरः ततो धरणि माश्रिता ।
व्यसर्पत जलं तत्र तीव्र शब्द पुरस्कृतम् ॥
मत्स्य कच्छप संघैश्च शिंशुमारगणैस्तदा ।
पतद्भिः पतितैश्चान्यैः व्यरोचत वसुंधरा ॥
ततो देवर्षि गंधर्वा यक्षासिद्धगणास्तदा ॥
व्यलोकयंत ते तत्र गगनाद्गां गतां तथा ।
विमानैर्नगरकारैः हयैर्गजवरैस्तदा ।
पारिप्लवगतैश्चापि देवतास्तत्र वीष्ठिताः ॥

स॥ गगनात् शंकर शिरः ततः धरणीं आश्रिता जलं तीव्र शब्द पुरस्कृतम् व्यसर्पत ।मत्स्य कच्छप संघैश्च शिंशु मारगणैः तदा पतद्भिः पतैताश्चान्यैः वसुंधरा व्यरोचत ।ततः देवर्षि गंधर्वा यक्ष सिद्ध गणां तदा गगनात् गां गतां ( गंगां) व्यलोकयंत ।नगरकारैः विमानैः हयैः गजवरैः तदा परिप्लवगतैश्च अपि देवताः तत्र वीष्टिताः ।

'Then Ganga falling down from the skies on to the head of Siva and then from Siva's head to the earth flowed speedily making roaring noise. The Ganga flowing with fish, tortoise, and crocodiles added lustre to the earth. Then the legions of Devas , Suras Rishis, Gandharvas Yakshas Siddhas looked on in awe as the Ganga moved from heaven to earth. They were sitting on planes as big as cities , horses, elephants etc'.

तदद्भुततमं लोके गंगापतनमुत्तमम् ।
दिदृक्षवो देवगणाः समीरमितौजसः ॥
संपतद्भिस्सुरगणैः तेषां चाभरणौजसा ।
शतादित्य मिवाभाति गगनं गततोयदम् ॥
शिंशुमारोरगगणैः मीनैरपि च चंचलैः ।
विद्युद्भिरिव विक्षिप्तं आकाशं अभवत्तदा ॥

स॥ तत् अद्भुततमं उत्तममं गंगापतनं लोके दिद्रुक्षवो देवगणाः समीरमितौजसः ।सुरगणैः संपतद्भिः तेषां आभरणौजसा च गत तोयदं गगनं शतादित्य मिवाभाति । चंचलैः शिंशुमारोरगणैः मीनैः अपि आकाशं विद्युद्भिरिव विक्षिप्तं अभवत् तदा।

'The legions of Devas got together to see the arrival of Ganga on the earth. The light from the jewels worn by the assembled Suras lighted the skies. And the skies bereft of clouds looked like it was lighted up by hundreds of Suns. With the movement of fish and crocodiles across the sky, it looked like sky was lighted up by lightning'.

पांडरैस्सलिलोत्पीडैः कीर्यमाणैः सहस्रथा ।
शारदाभ्रैरिवाकीर्णं गगनं हंस संप्लवैः ॥
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ।
विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ॥
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।
मुहुरुर्ध्वमुखं गत्वा पपात वसुधातलम् ॥

स॥ पांडरैसलिलोत्पीडैः कीर्यमाणैः गगनं सहस्रथा संप्लवैः शारदाभ्रैः आकीर्णं मिव ( अस्ति) । क्वचित् उद्ध्रुततरं याति क्वचिद् आयतं कुटिलं क्वचित् विनतं क्वचित् उद्भूतं क्वचित् याति शनैः शनैः (चलति) ।सलिलेनैव सलिलं मुहुः ऊर्ध्वमुखं क्वचित् अभ्याहतं गत्वा पुनः पपात वसुधातलम् ।

'The white foam of the jumping waters made the sky look like it is full of groups of swans flying and the monsoon clouds .The Ganga following Bhagiratha was flowing sometimes with much vigor, some times with many crooked turns, some times in a wider flow and some time slowly. The water waves falling on each other and again moving up then falling on earth'.

तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥
तत्र देवर्षि गंधर्वा वसुधातुलवासिनः ।
भवांग पतितं तोयं पवित्रमिति पस्पृशुः ॥
शापात् प्रपिता ये च गगनाद्वसुधातलम् ।
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥
धूतपापाः पुनस्तेन तोये नाथ सुभास्वता ।
पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे ॥
मुमुदे मुदितो लोकः तेन तोयेन भास्वता ।
कृताभिषेको गंगायां बभूव विगतक्लमः ॥

स॥ तत् शंकर शिरो भ्रष्ठं पुनः भूमितले भ्रष्ठं तदा तोयं गत कल्मषं निर्मलं व्यरोचत । भवांग पतितं तोयं पवित्रं इति देवर्षि गंधर्वा वसुधातुलवासिनः तत्र पस्पृशुः ।गगनात् वसुधातलं शापात् प्रपिता ये च तत्र अभिषेकं कृत्वा गत कल्मषाः ते बभूवुः ।अथ तोयेन सुभास्वता तेन पुनः धूत पापाः आकाशमाविश्य पुनः स्वान् लोकान् प्रतिपेदिरे । गंगायां अभिषेको कृत विगत क्लमः तेन तोयेन भास्वता लोकः मुदिते मुमुदे ।

' The waters of Ganga first falling on the head of Siva and then falling on the earth were shining brightly without any dirt. the Devas Gandharvas and all the residents of earth took the waters falling from the head of Siva as auspicious preformed the rituals with those waters. Those falling from the heavens to earth because of curse, bathed in those waters and became free of the curse. Brightened by the waters of Ganga and freed from the curse they entered the skies again and went back to their regions. Bathing in Ganga the people became free of stress and became joyful'.

भगीरथोsपि राजर्षिः दिव्यं स्यंदन मास्थितः ।
प्रायादग्रे महातेजाः तं गंगा पृष्ठतोsन्वगात् ॥

स॥ राजर्षिः भगीरथः महातेजाः अपि स्यंदनं आस्थितः तं अग्रे प्रायाद् । गंगा पृष्ठतो अन्वगात् ।

'As that powerful king Bhagiratha moved on in his chariot Ganga too followed him closely.

देवा स्सर्षिगणा स्सर्वे दैत्य दानवराक्षसाः ।
गंधर्वयक्षप्रवराः सकिन्नर महोरगाः ॥
सर्वाश्चाप्सरसो राम भगीरथ रथानुगाम् ।
गंगामन्वगमन् प्रीताः सर्वे जलचराश्चये ॥

स॥ हे राम ! भगीरथ रथानुगां गंगां अन्वगन् देवाः ऋषिगणा सह दैत्य दानव राक्षसाः गंधर्व यक्ष प्रवराः किन्नरैः सह महोरगाः अपि , अप्सरसाः सर्वाः च जलचराश्च सर्वे प्रीताः ॥

' Oh Rama the Devas, Rishis along with Daityas, Danavas, Rakshasa, Gandharvas, Yakshasa and Kinneras and all the beings that move in water were delighted and they too followed the chariot of Bhagiratha'.

यतो भगीरथो राजा ततो गंगा यशस्विनी ।
जगाम सरितां श्रेष्ठा सर्व पापविनाशिनी ॥
ततो हि यजमानस्य जह्नोरद्भुत कर्मणः ।
गंगा संप्लावयामास यज्ञवाटं महात्मनः ॥
ततो देवाः सगंधर्वा ऋषयश्च सुविस्मिताः ।
पूजयंति महात्मानं जह्नुं पुरुषसत्तमम् ।
गंगां चापि नयंति स्म दुहितृत्वे महात्मनः ॥
तत स्तुष्टो महातेजा श्रोताभ्यां असृजत् पुनः ।
तस्माज्जह्नुसुता गंगा प्रोच्यते जाह्नवीति च ॥

स॥ यतो भगीरथो राजा ततो यशस्विनी सरितां श्रेष्ठा पापविनाशनी गंगा जगाम । जह्नो अद्भुत कर्मणः महात्मनः तस्य यजमानस्य यज्ञवाटं गंगा ततः संप्लावयामास ।हे राघव ! तस्य अवलेपनं ज्ञात्वा क्रुद्धो यज्वा सर्वं गंगायाः जलं परमाद्भुतं अपिबच्च।ततः देवाः गंधर्वा सह ऋषयः च सुविस्मिताः जह्नुं पुरुषसत्तमम् माहात्मानं पूजयंति । गंगां चापि महात्मनः दुहितृत्वे नयंति स्म ।ततः तुष्ठो महातेजा श्रोताभ्यां असृजत् पुनः । तस्मात् गंगा जह्नु सुता जाह्नवी इति च प्रोच्यते ।

' Ganga , the most auspicious and destroyer of sins went wherever king Bhagiratha went. Then Ganga flowed over the hermitage of venerable sage Jahnu and the sacrificial hall was submerged. Seeing this as the arrogance of Ganga and thus angered , the venerable sage drank up all the waters of Ganga. Then the Devas, Rishis and Gandharvas wonder struck at the event worshipped the venerable sage. They made Ganga as his daughter. The pleased venerable sage then let the Ganga out through his ears. Since she became the daughter of the sage Jahnu she is also known as Jahnavi.

जगाम च पुनर्गंगा भगीरथ रथानुगा ।
सागरं चापि संप्राप्ता सा सरित्प्रावरा तदा ।
रसातलमुपागच्छत् सिद्द्यर्थं तस्य कर्मणः ॥
भगीरथो पि राजर्षिः गंगामादाय यत्नतः ।
पितामहान् भस्मकृतान् अपश्यत् दीनचेतसः ॥

स॥ पुनः गंगा भगीरथानुगा जगाम च सरित् प्रवरा सागरं चापि संप्राप्ता ।तदा तस्य कर्मणः सिद्द्यर्थं रसातल मुपागच्चत् ।गंगामादाय यत्नतः राजर्षिः भगीरथः अपि दीन चेतसः भस्मकृतान् पितामहान् अपस्यत् ।

There after Ganga again followed Bhagiratha. The best of all rivers then finally reached the ocean too. To complete the task of Bhagiratha the Ganga then entered the underground regions. Bhagiratha who with stupendous effort brought Ganga to earth was also dispirited when he saw the ashes of his forefathers'.

अथ तद्भस्मनां राशिं गंगासलिलमुत्तमम् ।
प्लावयद्दूत पाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥

स॥ अथ तत् भस्मनां राशिं उत्तमं गंगा सलिलं प्लावयत् ! रघोत्तमा दूतपाप्मानः स्वर्गं प्राप्ता ।

'Then the auspicious waters of Ganga immersed the ashes there upon the forefathers freed of all sins attained heaven'.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे त्रिचत्वारिंश स्सर्गः ॥
समाप्तं ॥

Thus ends the forty third Sarga of Balakanda in Srimad Valmiki Ramayan !
|| om tat sat ||


|| Om tat sat ||